Thursday, September 19, 2024
HomeStotramश्री गोपाल सहस्त्रनाम स्तोत्रम् (Gopal Sahastranam Stotram PDF)

श्री गोपाल सहस्त्रनाम स्तोत्रम् (Gopal Sahastranam Stotram PDF)

श्री गोपाल सहस्त्रनाम स्तोत्रम् (Gopal Sahastranam Stotram) एक महत्वपूर्ण और पवित्र ग्रंथ है जो भगवान श्रीकृष्ण के विभिन्न नामों का संकलन है। इस स्तोत्र के माध्यम से भक्तजन भगवान श्रीकृष्ण की महिमा का गान करते हैं और उनके विविध रूपों एवं गुणों का वर्णन करते हैं। श्रीकृष्ण, जो गोपाल, गोविंद, माधव, केशव आदि अनेक नामों से प्रसिद्ध हैं, इस स्तोत्र के हर नाम में उनकी दिव्यता और महिमा को प्रकट किया गया है।

गोपाल सहस्त्रनाम स्तोत्रम् का उल्लेख मुख्यतः सनातन धर्म के धार्मिक ग्रंथों में मिलता है। यह स्तोत्र वल्लभ सम्प्रदाय और ग्वाल बालकों के प्रिय भगवान श्रीकृष्ण की बाल लीलाओं के माध्यम से उनके चरित्र का सुंदर वर्णन करता है। इस स्तोत्र के पाठ से भगवान श्रीकृष्ण की कृपा प्राप्त होती है और जीवन में शांति, समृद्धि, और आध्यात्मिक उन्नति मिलती है।

श्री गोपाल सहस्त्रनाम स्तोत्रम् में भगवान के एक हजार नामों का वर्णन किया गया है, जो उनके विभिन्न स्वरूपों, गुणों और लीलाओं का चित्रण करते हैं। यह स्तोत्र केवल एक प्रार्थना नहीं है, बल्कि यह भगवान श्रीकृष्ण के साथ आत्मिक संबंध को गहरा बनाने का माध्यम भी है। हर नाम के साथ एक अनूठी कथा और आध्यात्मिक संदेश जुड़ा हुआ है, जो भक्तों को प्रेरित करता है और उनके हृदय में भक्ति की भावना को जागृत करता है।

इस स्तोत्र का पाठ करने से व्यक्ति के समस्त पापों का नाश होता है और उसे मोक्ष की प्राप्ति होती है। इसे नियमित रूप से पढ़ने से मानसिक शांति, आत्मिक बल और आध्यात्मिक ज्ञान की प्राप्ति होती है। इस स्तोत्र का उच्चारण करने से भक्त को भगवान श्रीकृष्ण के चरणों में स्थान मिलता है और वह उनकी कृपा का पात्र बनता है।

श्री गोपाल सहस्त्रनाम स्तोत्रम् की रचना करने वाले ऋषि, संत, या भक्त का नाम स्पष्ट नहीं है, लेकिन इसे वैदिक और पौराणिक काल से ही महत्वपूर्ण माना गया है। इसके नामों का उच्चारण न केवल भक्त के लिए आध्यात्मिक अनुभव का कारण बनता है, बल्कि यह उसकी दैनिक जीवन की समस्याओं का समाधान भी प्रदान करता है।

अतः, श्री गोपाल सहस्त्रनाम स्तोत्रम् एक अद्वितीय और पवित्र ग्रंथ है जो भगवान श्रीकृष्ण की महिमा का विस्तार से वर्णन करता है और भक्तों को उनके चरणों में भक्ति और प्रेम का अनुभव कराता है। इसे नियमित रूप से पढ़ने और सुनने से जीवन में असीम शांति, सुख, और समृद्धि की प्राप्ति होती है।


Download Gopal Sahastranam Stotram Lyrics PDF


  • हिंदी / संस्कृत
  • English

|| श्री गोपाल सहस्त्रनाम स्तोत्रम् संपूर्ण ||

कैलासशिखरे रम्ये गौरी पप्रच्छ शङ्करम् ।
ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ १ ॥

त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रम् महेश्वर ॥ २ ॥

आश्चर्यमिदमत्यन्तं जायते मम शङ्कर ।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ ३ ॥

श्रीमहादेव उवाच-
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ ४ ॥

स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५ ॥

दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ ६ ॥

धनरत्नौघमाणिक्यं तुरङ्गं च गजादिकम् ।
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ ७ ॥

तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥ ८ ॥

संसारसागरोत्तारकारणाय नृणां सदा ।
श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ ९ ॥

ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ १० ॥

निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।
बृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ ११ ॥

मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ १२ ॥

श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदा नन्दगेहिनी ॥ १३ ॥

द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरः ॥ १४ ॥

जातोऽवन्यां च मुदितो मुरलीवाचनेच्छया ।
श्रिया सार्धं वचः कृत्वा ततो जातो महीतले ॥ १५ ॥

संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
एतज्ज्योतिरहं वन्द्यं चिन्तयामि सनातनम् ॥ १६ ॥

गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ १७ ॥

स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ १८ ॥

तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ १९ ॥

दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥ २० ॥

निरञ्जनात्समुत्पन्नं मायातीतं जगन्मयम् ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ २१ ॥

ततो नारदतस्सर्वं विरला वैष्णवास्तथा ।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ २२ ॥

शठाय कृपणायाथ डाम्भिकाय सुरेश्वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ २३ ॥

ओं अस्य श्रीगोपालसहस्रनामस्तोत्र महामन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीगोपालो देवता, कामो बीजं, माया शक्तिः, चन्द्रः कीलकं, श्रीकृष्णचन्द्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः ।

ओं ऐं क्लीं बीजं, श्रीं ह्रीं शक्तिः, श्री बृन्दावननिवासः कीलकं, श्रीराधाप्रियं परं ब्रह्मेति मन्त्रः, धर्मादि चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

न्यासः ।
ओं नारद ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्रीगोपालदेवतायै नमः हृदये ।
क्लीं कीलकाय नमः नाभौ ।
ह्रीं शक्तये नमः गुह्ये ।
श्रीं कीलकाय नमः फालयोः ।
ओं क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा इति मूलमन्त्रः ।

करन्यासः ।
ओं क्लां अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं क्लूं मध्यमाभ्यां नमः ।
ओं क्लैं अनामिकाभ्यां नमः ।
ओं क्लौं कनिष्ठिकाभ्यां नमः ।
ओं क्लः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः ।
ओं क्लां हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं क्लूं शिखायै वषट् ।
ओं क्लैं कवचाय हुम् ।
ओं क्लौं नेत्रत्रयाय वौषट् ।
ओं क्लः अस्त्राय फट् ।

मूलमन्त्रन्यासः ।
क्लीं अङ्गुष्ठाभ्यां नमः ।
कृष्णाय तर्जनीभ्यां नमः ।
गोविन्दाय मध्यमाभ्यां नमः ।
गोपीजन अनामिकाभ्यां नमः ।
वल्लभाय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
क्लीं हृदयाय नमः ।
कृष्णाय शिरसे स्वाहा ।
गोविन्दाय शिखायै वषट् ।
गोपीजन कवचाय हुम् ।
वल्लभाय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ।

ध्यानम् ।

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ १ ॥

कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २ ॥

इति ध्यानम
ओं क्लीं देवः कामदेवः कामबीजशिरोमणिः ।
श्रीगोपालो महीपालो वेदवेदाङ्गपारगः ॥ १ ॥

कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः ।
गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ २ ॥

आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।
जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ ३ ॥

मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।
नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ ४ ॥

गोकुलेशो महाचन्द्रः शर्वरीप्रियकारकः ।
कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ ५ ॥

दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः ।
गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥ ६ ॥

गोपस्वामी गोकुलेन्द्रः गोवर्धनवरप्रदः ।
नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ ७ ॥

सर्वमङ्गलदाता च सर्वकामवरप्रदः ।
आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ ८ ॥

गजगामी गजोद्धारी कामी कामकलानिधिः ।
कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ ९ ॥

मालाकारः कृपाकारः कोकिलस्वरभूषणः ।
रामो नीलाम्बरो देही हली द्विविदमर्दनः ॥ १० ॥

सहस्राक्षपुरीभेत्ता महामारीविनाशनः ।
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ ११ ॥

कुमारीवरदायी च वरेण्यो मीनकेतनः ।
नरो नारायणो धीरो धरापतिरुदारधीः ॥ १२ ॥

श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा ।
बृन्दापतिः कुलं ग्रामी धाम ब्रह्मसनातनः ॥ १३ ॥

रेवतीरमणो रामः प्रियश्चञ्चललोचनः ।
रामायणशरीरश्च रामो रामः श्रियःपतिः ॥ १४ ॥

शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।
राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ १५ ॥

राधारतिसुखोपेतो राधामोहनतत्परः ।
राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ १६ ॥

राधालिङ्गनसम्मोदो राधानर्तनकौतुकः ।
राधासञ्जातसम्प्रीतो राधाकामफलप्रदः ॥ १७ ॥

बृन्दापतिः कोकनिधिः कोकशोकविनाशनः ।
चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥ १८ ॥

रामो दाशरथी रामो भृगुवंशसमुद्भवः ।
आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ १९ ॥

वृषभानुभवो भावी काश्यपिः करुणानिधिः ।
कोलाहलो हलो हाली हली हलधरप्रियः ॥ २० ॥

राधामुखाब्जमार्ताण्डो भास्करो रविजो विधुः ।
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ २१ ॥

रोहिणीहृदयानन्दी वसुदेवात्मजो बलिः ।
नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ २२ ॥

नागो जवाम्भो विरुदो वीरहा वरदो बली ।
गोपदो विजयी विद्वान् शिपिविष्टः सनातनः ॥ २३ ॥

परशुरामवचोग्राही वरग्राही सृगालहा ।
दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ २४ ॥

वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥ २५ ॥

यमुनावेगसंहारी नीलाम्बरधरः प्रभुः ।
विभुः शरासनो धन्वी गणेशो गणनायकः ॥ २६ ॥

लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशकः ।
वामनो वामनीभूतो वमनो वमनारुहः ॥ २७ ॥

यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः ।
उलूखली महामानो दामबद्धाह्वयी शमी ॥ २८ ॥

भक्तानुकारी भगवान् केशवोऽचलधारकः ।
केशिहा मधुहा मोही वृषासुरविघातकः ॥ २९ ॥

अघासुरविघाती च पूतनामोक्षदायकः ।
कुब्जाविनोदी भगवान् कंसमृत्युर्महामुखी ॥ ३० ॥

अश्वमेधो वाजपेयो गोमेधो नरमेधवान् ।
कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ ३१ ॥

रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।
ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ ३२ ॥

कमली कमलाक्षश्च कमलामुखलोलुपः ।
कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ ३३ ॥

सौभाग्याधिकचित्तश्च महामायी मदोत्कटः ।
ताटकारिः सुरत्राता मारीचक्षोभकारकः ॥ ३४ ॥

विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः ।
लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ ३५ ॥

सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।
खरदूषणसंहारी साकेतपुरवासवान् ॥ ३६ ॥

चन्द्रावलिपतिः कूलः केशिकंसवधोऽमरः ।
माधवो मधुहा माध्वी माध्वीको माधवी विभुः ॥ ३७ ॥

मुञ्जाटवीगाहमानो धेनुकारिर्दशात्मजः ।
वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ ३८ ॥

तथा तालवनोद्देशी भाण्डीरवनशङ्करः ।
तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ ३९ ॥

राधाप्राणसमो राधावदनाब्जमधूत्कटः ।
गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ ४० ॥

क्रीडाकमलसन्दोहो गोपिकाप्रीतिरञ्जनः ।
रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ ४१ ॥

कामः कामारिभक्तश्च पुराणपुरुषः कविः ।
नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ ४२ ॥

अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ ४३ ॥

पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।
गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रहिः ॥ ४४ ॥

गणाश्रयो गणाध्यक्षो क्रोडीकृतजगत्त्रयः ।
यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ ४५ ॥

भ्रमरः कुन्तली कुन्तीसुतरक्षी महामनाः ।
यमुनावरदाता च काश्यपस्य वरप्रदः ॥ ४६ ॥

शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः ।
पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ ४७ ॥

फाल्गुणः फल्गुनसखो विराधवधकारकः ।
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ ४८ ॥

कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः ।
अङ्कुशो भूसुरो भावो भामको भ्रामको हरिः ॥ ४९ ॥

सरलः शाश्वतो वीरो यदुवंशशिवात्मकः ।
प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ ५० ॥

महाधनो महावीरो वनमालाविभूषणः ।
तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ ५१ ॥

सूरः सूर्यो मृकण्डुश्च भास्वरो विश्वपूजितः ।
रविस्तमोहा वह्निश्च बाडबो बडबानलः ॥ ५२ ॥

दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।
गोपीनाथो महीनाथो बृन्दानाथोऽवरोधकः ॥ ५३ ॥

प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोमतिः ।
गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ ५४ ॥

कावेरी नर्मदा तापी गण्डकी सरयू रजः ।
राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ ५५ ॥

सुधामयोऽमृतमयो योगिनां वल्लभः शिवः ।
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ ५६ ॥

वंशी वंशधरो लोको विलोको मोहनाशनः ।
रवरावो रवो रावो वलो वालो वलाहकः ॥ ५७ ॥

शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः ।
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ ५८ ॥

मोहिनीमोहनो मायी महामायो महासुखी ।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥ ५९ ॥

कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः ।
कोमलो वारुणी राजा जलजो जलधारकः ॥ ६० ॥

हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।
खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ ६१ ॥

द्वादशारण्यसम्भोगी शेषनागफणालयः ।
कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥ ६२ ॥

हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।
गोपालचित्तहर्ता च कर्ता संसारतारकः ॥ ६३ ॥

आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ ६४ ॥

रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।
वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥ ६५ ॥

स्यमन्तकमणिप्राज्ञः विज्ञो विघ्नविघातकः ।
गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः ॥ ६६ ॥

वार्धन्यो वर्धनो वर्धी वर्धिष्णस्तु सुखप्रियः ।
वर्धितो वर्धको वृद्धो बृन्दारकजनप्रियः ॥ ६७ ॥

गोपालरमणीभर्ता साम्बकुष्ठविनाशनः ।
रुक्मिणीहरणप्रेमा प्रेमी चन्द्रावलीपतिः ॥ ६८ ॥

श्रीकर्ता विश्वभर्ता च नारायण नरो बली ।
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ ६९ ॥

व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
श्वःश्रेयसं शिवं भद्रं भावुकं भवुकं शुभम् ॥ ७० ॥

शुभात्मकः शुभः शास्ता प्रशस्तो मेघनादहा ।
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ ७१ ॥

कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।
कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ ७२ ॥

नन्दो नन्दी महानन्दी मादी मादनकः किली ।
मीली हिली गिली गोली गोलो गोलालयो गुली ॥ ७३ ॥

गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।
म्लेच्छहा कालहर्ता च यशोदा यश एव च ॥ ७४ ॥

अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः ।
हंसो नारायणो नीलो लीनो भक्तिपरायणः ॥ ७५ ॥

जानकीवल्लभो रामो विरामो विषनाशनः ।
सिंहभानुर्महाभानु-र्वीरभानुर्महोदधिः ॥ ७६ ॥

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ ७७ ॥

सदारामः कृपारामो महारामो धनुर्धरः ।
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ ७८ ॥

कमलाश्वतरो रामो रामायणप्रवर्तकः ।
द्यौर्दिवो दिवसो दिव्यो भव्यो भागी भयापहः ॥ ७९ ॥

पार्वतीभाग्यसहितो भर्ता लक्ष्मीसहायवान् ।
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ ८० ॥

सुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः ।
यमो यमारिर्यमनो यमी यामविघातकः ॥ ८१ ॥

वंशुली पांशुली पांसुः पाण्डुरर्जुनवल्लभः ।
ललिता चन्द्रिकामाला माली मालाम्बुजाश्रयः ॥ ८२ ॥

अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिप्रभुः ।
मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ ८३ ॥

बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः ।
अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ ८४ ॥

चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ ८५ ॥

श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः ।
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ ८६ ॥

नारायणः परं धाम देवदेवो महेश्वरः ।
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ ८७ ॥

भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।
अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ ८८ ॥

निराधारो निराकारो निराभासो निराश्रयः ।
पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ ८९ ॥

क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः ।
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ ९० ॥

देवकीगर्भसम्भूतो यशोदावत्सलो हरिः ।
शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ ९१ ॥

अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः ।
निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ ९२ ॥

कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।
हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ ९३ ॥

नन्दगोपकुमारार्यो नवनीताशनो विभुः ।
पुराणः पुरुषश्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ ९४ ॥

अनिरुद्धश्चक्रधरः शार्ङ्गपाणिश्चतुर्भुजः ।
गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥ ९५ ॥

बृन्दावनचरः शौरिर्वेणुवाद्यविशारदः ।
तृणावर्तान्तको भीमसाहसो बहुविक्रमः ॥ ९६ ॥

शकटासुरसंहारी बकासुरविनाशनः ।
धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ ९७ ॥

पितामहो गुरुस्साक्षी प्रत्यगात्मा सदाशिवः ।
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥ ९८ ॥

धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः ।
अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ ९९ ॥

क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः ।
धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ १०० ॥

लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥ १०१ ॥

मन्दस्मिततनुर्गोपगोपिकापरिवेष्टितः ।
फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥ १०२ ॥

इन्दीवरदलश्यामो बर्हिबर्हावतंसकः ।
मुरलीनिनदाह्लादो दिव्यमालाम्बरावृतः ॥ १०३ ॥

सुकपोलयुगः सुभ्रूयुगलः सुललाटकम् ।
कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ १०४ ॥

पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।
कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥ १०५ ॥

किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ १०६ ॥

मञ्जीररञ्जितपदः सर्वाभरणभूषितः ।
विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ १०७ ॥

गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः ।
समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ १०८ ॥

यमुनातीरसञ्चारी राधामन्मथवैभवः ।
गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ १०९ ॥

शृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् ।
सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ ११० ॥

नरकासुरसंहारी मुरारिर्वैरिमर्दनः ।
आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ १११ ॥

जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः ।
पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥ ११२ ॥

रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः ।
मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥ ११३ ॥

सुधाकरकुले जातोऽनन्तः प्रबलविक्रमः ।
सर्वसौभाग्यसम्पन्नो द्वारकापट्‍टणस्थितः ॥ ११४ ॥

भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ ११५ ॥

वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः ।
गोवर्धनधरो नाथः सर्वजीवदयापरः ॥ ११६ ॥

मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः ।
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ ११७ ॥

षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः ।
महानुभावः कैवल्यदायको लोकनायकः ॥ ११८ ॥

आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः ।
असमानः समस्तात्मा शरणागतवत्सलः ॥ ११९ ॥

उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।
गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ १२० ॥

विष्वक्सेनः सत्यसन्धः सत्यवाक् सत्यविक्रमः ।
सत्यव्रतः सत्यरतः सत्यधर्मपरायणः ॥ १२१ ॥

आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः ।
कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ १२२ ॥

भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥ १२३ ॥

भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥ १२४ ॥

नारसिंहो महावीरः स्तम्भजातो महाबलः ।
प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ १२५ ॥

उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः ।
गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ १२६ ॥

शेषपर्यङ्कशयनो वैनतेयरथो जयी ।
अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ १२७ ॥

योगीश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ १२८ ॥

नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।
सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ १२९ ॥

देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः ।
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ १३० ॥

तत्त्वत्रयात्मकोऽव्यक्तः कुण्डली समुपाश्रितः ।
ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥ १३१ ॥

श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १३२ ॥

समस्तभुवनाधारः समस्तप्राणरक्षकः ।
समस्तस्सर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ १३३ ॥

नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलम् ।
व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ १३४ ॥

पूर्णानन्दघनीभूतो गोपवेषधरो हरिः ।
कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ १३५ ॥

गोपाङ्गनावृतोऽनन्तो बृन्दावनसमाश्रयः ।
वेणुनादरतः श्रेष्ठो देवानां हितकारकः ॥ १३६ ॥

जलक्रीडासमासक्तो नवनीतस्य तस्करः ।
गोपालकामिनीजारश्चोरजारशिखामणिः ॥ १३७ ॥

परञ्ज्योतिः पराकाशः परावासः परिस्फुटः ।
अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ १३८ ॥

सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।
विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ १३९ ॥

भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः ।
भक्तदारिद्र्यशमनो भक्तानां प्रीतिदायकः ॥ १४० ॥

भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः ।
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तकः ॥ १४१ ॥

अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥ १४२ ॥

इति श्रीराधिकानाथ नाम्नां साहस्रमीरितम् ।
स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥ १४३ ॥

वैष्णवानां प्रियकरं महादारिद्र्यनाशनम् ।
ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ १४४ ॥

परद्रव्यापहरणं परद्वेषसमन्वितम् ।
मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ १४५॥

सहस्रनामपठनात्सर्वे नश्यन्ति तत्क्षणात् ।
महादारिद्र्ययुक्तो वै वैष्णवो विष्णुभक्तिमान् ॥ १४६॥

कार्तिक्यां यः पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।
पीताम्बरधरो धीमान् सुगन्धी पुष्पचन्दनैः ॥ १४७॥

पुस्तकं पूजयित्वा च नैवेद्यादिभिरेव च ।
राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥ १४८॥

शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।
चैत्रे कृष्णे च शुक्ले च कुहूसङ्क्रान्तिवासरे ॥ १४९॥

पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् ।
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ १५०॥

रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ १५१॥

पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते ।
महानिशायां सततं वैष्णवो यः पठेत्सदा ॥ १५२॥

देशान्तरगता लक्ष्मीः समायाति न संशयः ।
त्रैलोक्ये तु महादेवि सुन्दर्यः काममोहिताः ॥ १५३॥

मुग्धाः स्वयं समायान्ति वैष्णवं च भजन्ति ताः ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ १५४॥

गर्भिणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ।
राजानो वशतां यान्ति किं पुनः क्षुद्रमानुषाः ॥ १५५॥

सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये ।
धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ १५६॥

वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा ।
कदम्बपादपतले श्रीगोपालस्य सन्निधौ ॥ १५७॥

यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।
कृष्णेनोक्तं राधिकायै तया प्रोक्तं पुरा शिवे ॥ १५८॥

नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।
मया तव वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ १५९॥

गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ।
शठाय पापिने चैव लम्पटाय विशेषतः ॥ १६०॥

न दातव्यं न दातव्यं न दातव्यं कदाचन ।
देयं शान्ताय शिष्याय विष्णुभक्तिरताय च ॥ १६१॥

गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ १६२॥

मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् ।
यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ १६३॥

एकादश्यां नरः स्नात्वा सुगन्धद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ १६४॥

ततः प्रारम्भकर्तासौ सर्वं प्राप्नोति मानवः ।
शतावृत्त सहस्रं च यः पठेद्वैष्णवो जनः ॥ १६५॥

श्रीबृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् ।
यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ १६६॥

न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।
सर्पादिभूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ १६७॥

श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।
यद्गृहे च सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ १६८॥

इति श्रीसम्मोहनतन्त्रे हरगौरीसंवादे श्रीगोपाल सहस्रनामस्तोत्रम् ।

|| Gopal Sahastranam Stotram ||

kalashashikhare raamye gauree paprachchh shankaram॥
brahmaandaakhilanaathastvan srshtisanhaarakaarakah ॥ 1॥

tvamev poojyase lokairbrahmavishnusuraadibhih॥
nityan pathasi devesh kasy stotram maheshvar ॥ 2॥

aashcharyamidamatyantan jaayate mam shankar॥
tatpraanesh mahaapraagy sanshayan chhindhi me prabho ॥ 3 ॥

Shree Mahaadev uvaach-
Dhanyaasi krtapunyasi paarvatee praanavallabhe॥
rahasyatirahasyan ch yatprchchhasi varaanane ॥ 4 ॥

streesvabhaavaanmahaadevee punastvan pariprchchhasi॥
vishvaasan vishvaasan vishvaasan prayatnah ॥ 5 ॥

datte chadidhaanih syaattasmaadyatnen gopayet॥
idan rahasyan paraman purushaarthapradaayakam ॥ 6 ॥

dhanaratnaughamaanikyan turanagan ch gajaadikam॥
dadaati smaranadev mahaamokshapradaayakam ॥ 7 ॥

tattehan sampravakshyaami shrnushvaahahita priye॥
yosau niranjano devashchitsaroopee janaardanah ॥ 8॥

sansaarasaagarottarakaaranaay nrnaan sada॥
shreeraangaadikaroopen trailokyan vyaapy tishthati ॥ 9 ॥

tato loka mahaamoodha vishnubhaktivivartitaah॥
nishchitan naadhigachchhanti punarnaaraayano harih ॥ 10 ॥

nirjano niraakaaro bhaktaanaan preetikaamadah॥
brndaavanavihaaraay gopaalan roopamudvahan ॥11 ॥

muraleevaadanaadaaree raadhaayai priyatamaavahan॥
anshaanshebhyah samunmily poornaroopakaalayutah ॥ 12 ॥

shreekrshnachandro bhagavaan nandagopavarodyah॥
dharaneeroopinee maata yashoda nandagehinee॥ 13 ॥

dvaabhyaan prayaachito naatho devakyaan vaasudevatah॥
braahmanabhayarthito devo devairapi sureshvarah ॥ 14॥

jaatovanyaan ch mudito muraleevachanechchhaya॥
shriya saardhan vaachah krtva tato jaato mahitale॥ 15 ॥

sansaarasaarasarvasvan shyaamalan mahadujjvalam॥
etajjyotirahan vandyan chintayaami sanaatanam ॥ 16॥

gauratejo vina yastu shyaamatejassamorchayet॥
japedva dhyaayate vaapi sa bhavetpaatakee shive ॥ 17 ॥

sa brahmaha surapi ch svarnastaye ch panchamah॥
etairdoshairvilipyet tejobhedaanamaheshvari॥ aath ॥

tasmaajjyotirbhudvedha raadhaamaadhavaroopakam॥
tasmaadidan mahaadevi gopaalenaiv bhaashitam ॥ 19 ॥

durvaasaso muneramohe kaartikyaan raasamandale॥
tatah prshtavatee raadha sandehan bhedamaatmanah ॥ 20॥

niranjanaatsamutpannan maayaateetan jaganmayam॥
shreekrshnen tatah proktan raadhaayai naaradaay ch ॥ 21 ॥

tato naaradatssarvan virala vaishnavastatha॥
kalau jaananti deveshi vishvaasan prayaasatah ॥ 22 ॥

shathaay krpaanayath dambhikaay sureshvari॥
brahmahatyaamavaapnoti tasmaadyatnen gopayet ॥ 23 ॥

oom asy shreegopaalasahasranaamastotr mahaamantrasy shreenaarad rshih, anushtup chhandah, shreegopaalo devata, kaamo beejan, maaya shaktih, chandrah keelakan, shreekrshnachandr bhaktiroopaphalapraaptaye shreegopaalasahasranaamastotrajape viniyogah॥

oom ain kleen beejan, shreen hreen shaktih, shree brndaavananivaasah keelakan, shreeraadhaapriyan paran brahmeti mantrah, dharmaadi chaturvidh purooshaarthasiddhyarthe jape viniyogah॥

bharosaah ॥
om naarad rshaye namah shirasi॥
anushtup chhandase namah mukhe॥॥
shreegopaaladevataayai namah hrdaye॥
kleen keelakaay namah naabhau॥
hreen shaktaye namah guhaye॥
shreen keelakaay namah phalayoh॥
oon kleen krshnaay govindaay gopeejanavallabhaay svaaha iti moolamantrah॥

karanyaasah॥
om kleen angushthaabhyaan namah॥
om kleen mahaanibhyaan namah॥
om kleen madhyamaabhyaan namah॥
om klaan anaamikaabhyaan namah॥
om ain kleen kanishthikaabhyaan namah॥
om kleen karatalakaraprajaabhyaan namah॥

hrdayaadinyaasah॥
om kleen hrdayaay namah॥
oon kleen shirase svaaha॥
oon kleen shikhaayai vashat॥
oon klain kavachaay hum॥
oon klaun utsavatrayai vaushat॥
oon klah astraay phat॥

moolamantranyaasah॥
kleen angushthaabhyaan namah॥
krshnaay mahaapaanibhyaan namah॥
govindaay madhyamaabhyaan namah॥
gopeejan anaamikaabhyaan namah॥
vallabhaay kanishthikaabhyaan namah॥
svaaha karatalakaraprajaabhyaan namah॥॥
kleen hrdayaay namah॥
krshnaay shirase svaaha॥
govindaay shikhaayai vashat॥
gopeejan kavachaay hum॥
vallabhaay utsavatrayaay vaushat॥
svaaha astraay phat॥

dhyaanam ॥

phullendeevarakaantiminduvadan brhavatansapriyan
shreevatsaankamudaarakaustubhadran peetaambaran sundaram॥
gopeenaan nayanotpalaarchitanun gogopasanaghavrtan
govindan kalavenuvaadanaparan divyangabhooshan bhaje ॥ 1॥

kastooreetilakan lalaataphalake vakshasthale kaustubhan
naasaagre varaamauktikan karatale venu kare kaankanam॥
sarvaange harichandanan ch kalyaanan kanthe ch muktaavalin
gopaastreepariveshito vijayate gopaalachoodaamanih ॥ 2॥


oon kleen devah kaamadevah kaamabeejashiromanih॥
shreegopaalo mahipaalo vedavedaangapaaragah ॥ 1॥

krshnah kamalapatraakshah pundareekah sanaatanah॥
gopeerbhoopatih shaasta praharta vishvatomukhah ॥ 2॥

aadi karta mahaanaayakah prataapavaan॥
jagajjeevo jagaddhaata jagbharta jagadvasuh ॥ 3 ॥

matsyo bheemah kuhoobharta harta varaahamoortimaan॥
naaraayano hrsheekesho govindo garudadhvajah ॥ 4 ॥

gokulesho mahaachandrah sarvipriyakaarakah॥
kamalaamukhalolaakshah pundareekah shubhaavahah ॥ 5 ॥

durvaasaah kapilo bhaumah sindhusaagarasangamah॥
govindaro gopeetargotrah kaalindeepremapoorakah ॥ 6 ॥

gopasvaamee gokulendrah govardhanavarapradaah॥
nandaadigokulatrata daata daaridryabhanjanah ॥ 7 ॥

sarvamangaladaata ch sarvakaamvarapradaah॥
aadikarta maheebhaarata sarvasaagarasindhujah ॥ 8॥

gajagaamee gojodhari kaamee kaamakalaanidhih॥
kaalankaaritashchandro bimbasyo bimbasattamah ॥ 9 ॥

mangalakaarah krpaakaarah kokilasvarabhooshanah॥
raamo neelaambaro dehi hali dvividamardanah ॥ 10 ॥

sahasraakshapureebhettaamahaamaareevinaashanah॥
shivah shivatamo bhetta balaratiprapoojakah ॥ 11॥

kumaareevarayaad ch varenyo meeniketanah॥
naro naaraayano dheero dharapatirudaaradhih ॥ 12 ॥

shreepatih shreenidhih shreemaan maapatih pratiraajaha॥
brndaapatih kulan graamee dhaam brahmasanaatanah ॥ 13 ॥

revateeramano raamah priyashchalalochanah॥
raamaayanashareerashch raamo raamah shreepatih ॥ 14॥

sarvaah sarvaari sarvaah sarvatr shubhadaayakah॥
raadhaaraadhyaayitaraadhi raadhaachittapramodakah ॥ 15 ॥

raadhaaratisukhopeto raadhaamohanatatparah॥
raadhaavashikro raadhaahrdyamabhojashatpaadah ॥ 16॥

raadhaalinganasammodo raadhaanartanakautukah॥
raadhaasanjaatasampreeto raadhaakaamaphalapradah ॥ 17 ॥

brndaapatih kokanidhih kokashokavinaashanah॥
chandrapatishchachandrapatishchandakodandabhanjanah ॥ 18 ॥

raamo daasharathee raamo bhrguvanshasamudbhavah॥
aatmaaraamo jitakrodho moho mohaandhabhanjanah ॥ 19 ॥

vrshabhaanubhavo bhaavee kashyapih karunaanidhih॥
kolaahalo halo haalee hali haladharapriyah ॥ 20॥

raadhaamukhaabajamaartando bhaaskaro ravijo vidhuh॥
vaidharvidhata varuno varuno varuneepriyah ॥ 21 ॥

rohinihrdayaanandi vasudevaatmajo balih॥
neelaambaro rauhineyo jaraasandhavadhomalah ॥ 22 ॥

naago javaambho virudo viraha varado balee॥
gopado vijayee vidvaanah sanaatanah ॥ 23 ॥

parashuraamavachagraahee varagraahee srgaalaha॥
damaghoshopadeshta ch rathagraahee sudarshanah ॥ 24॥

veerapatiyashastrata jaraavyaadhivighaatakah॥
dvaarakaavaasattvagyo hutaashanavarapradah ॥ 25 ॥

yamunaavegasanhaaree neelaambaradharah prabhuh॥
vibhuh sharaasano dhanvee ganesho gananaayah ॥ 26 ॥

lakshmano lakshano lakshyo rakshovanshavinaayakah॥
vaamano vaamanibhooto vaamano vaamanaaruh ॥ 27 ॥

yashodaanandanah karta yamalaarjunamuktidah॥
ulookhali mahaamaano dambaddhahvyi shamee ॥ 28 ॥

bhaktaanukaaree bhagavaan keshavochaladhaarakah॥
keshiha madhuha mohi vrshaasuravighaatakah ॥ 29 ॥

aghaasuravighaatee ch pootanaamokshadaayakah॥
kubjaavinodee bhagavaan kansaamrtyumahaamukhee ॥ 30 ॥

ashvamedho vaajapeyo gomedho naradhevaan॥
kandarpakotilavanyaashchandrakotisusheetalah ॥ 31 ॥

ravikotipratikaasho vaayukotimahaabalah॥
brahma brahmaandakarta ch kamalaavanchitapradah ॥ 32 ॥

kamali kamalaakshashch kamalaamukhalolupah॥
kamalaavratadhaaree ch kamalaabhah purandarah ॥ 33 ॥

saubhaagyaadhikchittashch mahaamaayee madotkatah॥
tatkaarih suratraata maareechakshobhakaarakah ॥ 34 ॥

vishvaamitrapriyo danto raamo raajeevalochanah॥
lankaadhipakuladhvansee vibheeshanvarapradaah ॥ 35 ॥

seetaanandakaro raamo veero vaaridhibandhanah॥
kharadooshanasanhaaree saaketapuravaasavaan॥ 36 ॥

chandraavalipatih sheetalah keshikaanshavadhomarah॥
maadhavo madhuha maadhvee maadhaveeko maadhavee vibhuh ॥ 37 ॥

munjaataveegaahamaano dhenukaarirdashaatmajah॥
vansheevatavihaaree ch govardhanaashrayah ॥ 38 ॥

tatha talavanodadeshee bhaandeeravansankarah॥
trnaavartakrpaakaaree vrshabhaanusutaapatih ॥ 39 ॥

raadhaapraanasamo raadhaavadanaabjamadhutkatah॥
gopeeranjanadaivagyah leelaakamalapoojitah ॥ 40॥

kreedaakamalasandoho gopikaapreetiranjanah॥
ranjako ranjano rango rangee rangamaheeruhah ॥ 41 ॥

kaamah kaamaribhaktashch puraanapurushah kavih॥
naarado devalo bheemo baalo baalamukhaambujah ॥ 42 ॥

ambujo brahmasaakshee ch yogee dattavaro munih॥
rshabhah parvato graamo nadeepaavanavallabhah ॥ 43 ॥

padmanaabhah surajyeshtho brahma rudrohibhooshitah॥
ganaanaan traanakarta ch ganesho grahilo grahih ॥ 44 ॥

ganashrayo ganaadhyaksho krodiphaidajagatatrayah॥
yaadavendro dvaarakendro mathuraavallabho dhuree॥ 45 ॥

bhraamarah kuntali kunteesutarakshee mahaamanaah॥
jamunaavaradaata ch kashyapasy varapradah ॥ 46 ॥

shankhachoodavadhodaamo gopeerakshanatatparah॥
panchajanyakaro rami triraami vanajo jayah ॥ 47 ॥

phaalgunah phalgunasakho viraadhavakaarakah॥
rukmineepraananaathashch satyabhaamaapriyankarah ॥ 48 ॥

kalpavrksho mahaavrksho daanavrksho mahaaphalah॥
aakaasho bhusuro bhaavo bhaamako krshno harih ॥ 49 ॥

saralah shaashvato veero yaduvanshashivaatmakah॥
pradyumno balakarta ch praharta daityaha prabhuh ॥ 50 ॥

mahaadhano mahaaveero vanamaalaavibhooshanah॥
tulaseedaamashobhaadhyo jaalandharavinaashanah ॥ 51 ॥

soorah sooryo mrkandushch bhaasvaro vishvapoojitah॥
ravistamoha vahnishch badabo badabaanalah ॥ 52 ॥

daityadarpanashi ch garudo garudagrajah॥
gopeenaatho mantho brndaanaathovarodhakah ॥ 53 ॥

praapanchi pancharoopashch maataagulmashch gomatih॥
ganga ch yamunaaroopo goda vetravatee tatha ॥ 54 ॥

kaaveree narmada taapee gaandakee sarayoo raajah॥
raajasastaamasassattvee sarvaangee sarvalochanah ॥ 55 ॥

sudhaamayomrtamayo yoginaan vallabhah shivah॥
buddho buddhimataan shreshtho vishnurjishnuh shacheepatih ॥ 56 ॥

vansh vanshadharo loko viloko mohanaashanah॥
raavaraavavo raavo vaalo vaalo valaahakah ॥ 57 ॥

shivo rudro nalo neelo laangalee laangalaashrayah॥
paradaah pauro hanso hansaaroodho jagatpatih ॥ 58 ॥

mohineemohano mayi mahaamaayo mahaasukhee॥
vrsho vrshaakapih kaalah kaaleedamanakaarakah ॥ 59 ॥

kubjaabhaagyaprado veero raajakakshayakaarakah॥
komalo vaaruni raaja jalajo jaladhaarakah ॥ 60 ॥

harakah sarvapaapaghnah parameshthee pitaamahah॥
khadgadhaaree krpaakaaree raadhaaramanasundarah ॥ 61 ॥

dvaadashaaranyasambhogee sheshanaagaphanaalayah॥
kaamah shyaamah sukhashreedah shreepatih shreenidhih krtih ॥ 62 ॥

harirharo naro naro narottam ishupriyah॥
gopaalachittaharta ch karta sansaarataarakah ॥ 63 ॥

aadidevo mahaadevo gaureegururanaashrayah॥
saadhurmurvidhuradhaata traataakrooraparaayanah ॥ 64 ॥

rolambi ch hyagreevo vaanararirvanaashrayah॥
vanan vaanee vanaadhyaksho mahaavandyo mahaamunih ॥ 65 ॥

syamantakamanipragyah vigyo vighnavighaatakah॥
govardhano vardhaniyo vardhani vardhanapriyah ॥ 66 ॥

vardhaanyo vardhi vardhistu sukhapriyah॥
udyogo vrddho vrddho vrddho janapriyah ॥ 67 ॥

gopaalaramanibharta saambakushthavinaashanah॥
rukmineeharanaprema premee chandravalipatih ॥ 68 ॥

shreekarta vishvabharta ch naaraayan naro balee॥
gano ganapatishchaiv saashtaatreyo mahaamunih ॥ 69 ॥

vyaasaso naaraayano divyo bhavyo mandhaarakah॥
shvashresan shivan bhadran manidan bhuvukan shubham ॥ 70 ॥

shubhaatmakah shubhah shaasta poorno meghanaadaha॥
brahmanyadevo deenaanaamuddhaarakaranakshamah ॥ 71 ॥

krshnah kamalapatraakshah krshnah kamalalochanah॥
krshnah kaamee sada krshnah sarvapriyakaarakah ॥ 72 ॥

nando nandi mahaanandi maadi madanakah kilee॥
mailee hilee gilee golo golo golyao galee ॥ 73 ॥

guggulee maarkee shaakhee vatah pippalakah krti॥
mlechchh kaalaharta ch yashoda yash ev ch ​​॥ 74 ॥

achyutah keshavo vishnuh harih satyo janaardanah॥
hanso naaraayano neelo leeno bhaktiparaayanah ॥ 75 ॥

jaanakeevallabho raamo raajo vinaashanah॥
sinhabhaanurmahaabhaanu-raveerabhaanurmahodhih ॥ 76 ॥

samudrobdhirakupaaraah paravaarah saritpatih॥
gokulaanandakaaree ch pratigyaaparipaalakah ॥ 77 ॥

sadaaraamah krpaaraamo mahaaraamo dhanurdharah॥
parvatah parvataakaaro gayo gayo dvijapriyah ॥ 78 ॥

kamalaashvatro raamo raamaayanapravartakah॥
dyaurdivo dayo divyo bhavyo bhagee bhayaapah ॥ 79 ॥

paarvateebhaagyasahito bharta lakshmeesahaayavaan॥
vilaasee devils sarvi gauravee gauravalochanah ॥ 80 ॥

surairalokadharmagyo jeevano jeevanaantakah॥
yamo yamaariyamano yami yamavighaatakah ॥ 81 ॥

vanshulee paanshuli paansuh paandurarjunavallabhah॥
lalita chandrikaamaala maalee maalaambujaashrayah ॥ 82 ॥

ambujaaksho mahaayaksho dakshinachintaamaniprabhuh॥
manirdinamanishchaiv kedaaro badreeshrayah ॥ 83 ॥

badreevanasampreeto vyaasah satyavateesutah॥
amaraarinihanta ch sudhaasindhuvidhudayah ॥ 84 ॥

chandro ravih shivah shoolee chakree chaiv gadaadharah॥
shreekarta shreepatih shreedah shreedevo devakeesutah ॥ 85 ॥

shreepatih pundareekaakshah padmanaabho jagatpatih॥
vaasudevoprameyaatma keshavo garudadhvajah ॥ 86 ॥

naaraayanah paran dhaam devadevo maheshvarah॥
chakrapaanih kalaapoorno vedavedyo dayaanodih ॥ 87 ॥

bhagavaan sarvabhootesho gopaalah sarvapaalakah॥
ananto nirguno nityo nirvikalpo niranjanah ॥ 88 ॥

niraadhaaro niraakaaro niraabhaaso niraashrayah॥
purushah pranavateeto mukundah bhagavaanah ॥ 89 ॥

kshanaavanih sarvabhaumo vaikuntho bhaktavatsalah॥
vishnuradaamodarah krshno maadhavo mathuraapatih ॥ 90 ॥

devakeegarbhasambhooto yashodaavatsalo harih॥
shivah sankarshanah shambhurbhootanaatho dippatih ॥ 91 ॥

avyayah sarvadharmagyo nirmalo nirupadravah॥
nirvaananaayako nityo neelajeemutsannibah ॥ 92 ॥

kalaakshayashch sarvagyah kamalaaroopatatparah॥
hrsheekeshah peetavaasa vaasudevapriyaatmajah ॥ 93 ॥

nandagopakumaarayor navaneetaashano vibhuh॥
puraanah purushashreshthah shankhapaanih suvikramah ॥ 94 ॥

aniruddhashchakradharah shaarangapaanishchaturbhujah॥
gadaadharah suratighno govindo nandakaayudhah ॥ 95 ॥

brndaavanacharah shaurirvenuvaadyavishaaradah॥
trnaavartantako bheemasaahaso bahuvikramah ॥ 96 ॥

shaktaasur sanhaare bakaasuravinaashanah॥
dhenukaasurasanhaaree pootanaarirnakesaree ॥ 97 ॥

pitaamaho gurussasaakshee pratyagaatma sadaashivah॥
aprameyah prabhuh praagyopratarkyah svapnavardhanah ॥ 98 ॥

dhanyo manayo bhaavo bhaavo dheerah shaanto jagguruh॥
antaryaameeshvaro divyo daivagyo devasanstutah ॥ 99 ॥

ksheerabdhishayano dhaata lakshmeevaan lakshmaagraj:॥
dhaatreepatiraameyaatma chandrashekharapoojitah ॥ 100 ॥

lokasaakshee jagachchakshuh punyacharitrakeertanah॥
kotimanmathasaundaryo jaganmohanavigrahah ॥ 101 ॥

mandasmitaanurgopagopikaapariveshatah॥
phullaravindanayanashchaanuraandhranishudanah ॥ 102 ॥

indeevaradalashyaamo barhibarhaavatansakah॥
muraleeninadaahlaado divyamaalaambaraavrtah ॥ 103 ॥

sukapolayugah subhrooyugalah sullaatakam॥
kambugreevo vishaalaaksho lakshmeevanchubhalakshanah ॥ 104 ॥

peenavakshaashchaturbaahushchaturmoortistrivikramah॥
kaalankaaritah shuddho dushtashatrunibarhanah ॥ 105 ॥

kireetakundaladharah katakaanagadamanditah॥
mudrikaabharanopetah katisootraviraajitah ॥ 106 ॥

manjeeranjitapadah sarvaabharanabhooshitah॥
vinyastapaad yugalo divyamangalavigrahah ॥ 107 ॥

gopikaayanaanandah poornachandranibhaanah॥
sarvajagadaanandah sundaro lokanandanah ॥ 108 ॥

yamunaateerasanchaaree raadhaamanmathaibhavah॥
gopanaaripriyo danto gopeevastropahaarakah ॥ 109 ॥

shreegaarmoortih shreedhaama taarako moolakaranam॥
srshtisanrakshanopaayah kroraasuravibhanjanah ॥ 110॥

helaasurasanhaare muraarivairimardanah॥
aditipriyo daityabhikaaro yadushekharah ॥ 111॥

jaraasandhakuladhvansi kansaratih suvikramah॥
punyashlokah keertaniyo yaadavendro jagannutah ॥ 112 ॥

rukmeenirmanah satyabhaamaajaambavateepriyah॥
mitravindaanaagnilakshmanaasamupaasitah ॥ 130 ॥

sudhaakarakule jaatonantah prabalavikramah॥
sarvasaubhaagyasampanno dvaarakaapat phlaitanasthitah ॥ 114 ॥

bhadrasooryasutaanaatho leelaamaanushavigrahah॥
sahasrashodhashaastreesho bhogamokshaayakah ॥ 115 ॥

vedaantavedyah sanvedyo vaidyo brahmaandanaayakah॥
govardhanadharo naathah sarvajeevadayaaparah ॥ 116 ॥

moortimaan sarvabhootaatma aartatraanaparaayanah॥
sarvagyah sarvasulabhah sarvashaastravishaaradah ॥ 117॥

shadgunaishvaryasampannah poornakaamo dhurandharah॥
mahaanubhaavah kaivalyadaayako lokanaayakah ॥ 118॥

aadimadhyaantaritah shuddhasaattvikavigrahah॥
samagrah sarvaatma sharanagatavatsalah ॥ 119 ॥

utpattisthitisanhaarakaaranan sarvakaaranam॥
mahatvah sarvabhaavagyah sachchidaanandavigrahah ॥ 120 ॥

vishvaksenah satyasandhah satyavaak satyavikramah॥
satyavratah satyatah satyadharmaparaayanah ॥ 121 ॥

apannaartiprashamanah dropadeemaanarakshakah॥
kandarpajanakah praagyo jagannaatakavaibhavah ॥ 122 ॥

bhaktivashayo gunaateetah sarvaishvaryapradaayakah॥
damaghoshasutadveshee baanabaahuvikhandanah ॥ 123 ॥

bheeshmabhaktiprado divyah kauravanaashanah॥
kaunteyapriyabandhushch paarthasyandanasaarathih ॥ 124 ॥

naarasinho mahaaveerah stambhajaato mahaabalah॥
prahlaadavaradah satyo devapoojyobhayankarah ॥ 125 ॥

upendr indrabandhavarajo vaamano balinaah॥
gajendravaradah svaamee sarvadevanamaskrtah ॥ 126 ॥

sheshaparyankshayano vanteyeratho jayi॥
avyaahatabalaishvaryasampannah poornamaanasah ॥ 127 ॥

yogeeshvareshvarah saakshaat kshetragyo gyaanadaayakah॥
yogihrtapankajaavaaso yogamaayasamanvitah ॥ 128 ॥

naadabindukalaateetashchaturvargaphalapradah॥
sushumnaamaargasanchaaree dehasyaantarasansthitah ॥ 129 ॥

dehendroniyamahpraanasaakshee chetahprasaadakah॥
sookshmah sarvagato dehi gyaanadarpanagocharah ॥ 130 ॥

tattvatrayaatmakovyaktah kundalee samaapaashritah॥
brahmanyah sarvadharmagyah shaanto danto gatiklamah ॥ 131 ॥

shreenivaasah sadaanando vishvamoortirmahaaprabhuh॥
sahasrasheersha purushah sahasraakshah sahasarpat ॥ 132 ॥

samagrabhuvanaadhaarah samagrapraanarakshakah॥
sarvasvabhaavagyo gopikaapraanavallabhah ॥ 133 ॥

nityotsavo nityasaukhyo nityashreenityamangalam॥
vyoohaarchito jagannaathah shreevaikunthapuraadhipah ॥ 134 ॥

poornaanandaghaneebhooto gopaveshadharo harih॥
kalaapakusumashyaamah komalah shaantavigrahah ॥ 135 ॥

gopaangaanaavrtonaananto brndaavanasamaashrayah॥
venunaadaaratah shreshtho devaanaan hitakaarakah ॥ 136 ॥

jalakreedaasamaasakto navaneetasy taaraah॥
gopaalakaamineejaarashorjaashikhaamanih ॥ 137 ॥

pranjyotih prakaashah paraavaasah parishphutah॥
ashtaadashaaksharo mantro vyaapako lokapaavanah ॥ 138 ॥

saptakotimamahaamantrashekharo devashekharah॥
vigyaanagyaanasandhaanastejoraashirjagatpatih ॥ 139 ॥

bhaktalokaprasannaatma bhaktamandaravigrahah॥
bhaktadaaridryashamano bhaktaanaan priyataapakah ॥ 140 ॥

bhakt adheenamanaah poojyo bhaktalokashivankarah॥
bhaktaabheeshtapradah sarvabhaktaghaughnikraantakah ॥ 141 ॥

apaarakarunaasindhurbhagavaan bhaktatatparah ॥ 142 ॥

iti shreeraadhikaanaath naamnaan saahasamiritam॥
smaranaatpaaparaasheenaan khandanan mrtyunaashanam ॥ 143 ॥

vaishnavaanaan priyakaran mahaadaaridryanaashanam॥
brahmahatyaasuraapannan parastreegamanan tatha ॥ 144 ॥

paradravyaapaharanan paradveshasamanvitam॥
manasan vaachikan kaayan yatpaapan paapasambhavam ॥ 145॥

sahasranaamapathanaatsarve nashyanti tatkshanaat॥
mahaadaaridryayukto vai vaishnavo vishnubhaktimaan॥ 146॥

kaartikyaan yah pathedratrau shatamashtotan kramaat॥
peetaambaradharo dheemann sugandhi pushpachandanaih ॥ 147॥

bukan poojyitva ch naivedyaadibhirev ch॥
raadhaadhyaanaankito dheero vanamaalaavibhooshitah ॥ 148॥

shatamashtottan devee patthainamasahasrakam॥
chaitre krshne ch shukle ch kuhusukraantivaasare ॥ 149॥

patitavyan prayatnen trailokyan mohayet kshanaat॥
tulaseemaalaya yukto vaishnavo bhaktitatparah ॥ 150॥

ravivaare ch shukre ch dvaadashyaan shraaddhaashre॥
braahmanan poojayitva ch bhojayitva vihitatah ॥ 151॥

pathenanaamasahasran ch tatah siddhih prajaayate॥
mahaanishaayaan satatan vaishnavo yah pathetsada ॥ 152॥

deshaantaragata lakshmeeh samayati na sanshayah॥
trailokye tu mahaadevee sundaryah kaamamohitaah ॥ 153॥

mugdhaah svayan samayanti vaishnavan ch bhajanti taah॥
rogee rogaatpramuchyet baddho muchyet bandhanaat ॥ 154॥

garbhinee janayetputran kanya vindati shatapatim॥
raajaano vashtaan yaanti kin punah aarambh kshudramanushaah ॥ 155॥

sahasranaamashravanaat pathaat poojanaat priye॥
dhaaranaat sarvamaapnoti vaishnavo naatr sanshayah ॥ 156॥

vanshaivate chaanyavate tatha pippalaketh va॥
charanapaadapaatale shreegopaalasy sannidhau ॥ 157॥

yah pathedvaishnvo nityan sa yaati harimandiram॥
krshnenoktan raadhaayai taiy proktan pura shive ॥ 158॥

naaradaay maaya proktan naaraden prakaashitam॥
maaya tav vararohe proktametatsudurlabham ॥ 159॥

vishvaasan prayaasen na prakaashyan kadaachan॥
shathaay paapine chaiv lampatay visheshatah ॥ 160॥

na daatavyan na daatavyan na daatavyan kadaachan॥
deyan shaantaay shishyaay vishnubhaktirataay ch ॥ 161॥

godaanabrahmayagyaderavaajapeyashatasy ch॥
ashvamedhasahasrasy phalan paathe bhaveddhruvam ॥ 162॥

mohanan stambhanan chaiv maaranochchaatanaadikam॥
yadyadvanchati chitten tattatpraapnoti vaishnavah ॥ 163॥

ekaadashyaan narah snaatva sugandhadravyatalaikaih॥
aahaaran braahmane dattva dakshinaan svarnabhooshanam ॥ 164॥

tatah nishchayakartaasau sarvan praapnoti maanavah॥
shataavrttan sahasran ch yah pathedvaishnvo janah ॥ 165॥

shreebrndaavanachandrasy prasaadaatsarvamaapnuyaat॥
yadgrhe pustakan devee poojitan chaiv tishthati ॥ 166॥

na maaree na ch durbhikshan nopasargabhyan kvachit॥
saaraadibhootayakshaady nashyante naatr sanshayah ॥ 167॥

shreegopaalo mahaadevee vasettasy grhe sada॥
yadgrhe ch sahasran ch naamnaan tishthati poojitam ॥ 168॥

Iti shreesammohanatrte haragaureesanvaade shreegopaalasahasranaamastotram॥


श्री गोपाल सहस्त्रनाम स्तोत्रम् के लाभ

श्री गोपाल सहस्त्रनाम स्तोत्रम् एक अत्यंत पवित्र और शक्तिशाली स्तोत्र है, जिसमें भगवान श्रीकृष्ण के एक हजार नामों का वर्णन किया गया है। इस स्तोत्र के नियमित पाठ से अनेक आध्यात्मिक और भौतिक लाभ प्राप्त होते हैं। आइए, इन लाभों को विस्तार से समझें।

मानसिक शांति और स्थिरता: श्री गोपाल सहस्त्रनाम स्तोत्रम् का नियमित पाठ करने से मन को अद्वितीय शांति और स्थिरता प्राप्त होती है। इसके नामों के उच्चारण से मन के विकार दूर होते हैं और मानसिक तनाव, चिंता और अवसाद का नाश होता है। यह व्यक्ति को एकाग्रचित्त बनाता है और उसकी मानसिक स्थिति को संतुलित करता है।

आध्यात्मिक उन्नति: इस स्तोत्र के माध्यम से भगवान श्रीकृष्ण की कृपा प्राप्त होती है, जिससे भक्त का आध्यात्मिक स्तर बढ़ता है। इसके पाठ से आत्मा की शुद्धि होती है और व्यक्ति को आत्मज्ञान प्राप्त होता है। यह स्तोत्र भक्त के हृदय में भक्ति और प्रेम की भावना को जागृत करता है, जिससे उसका भगवान के साथ संबंध और गहरा होता है।

पापों का नाश: श्री गोपाल सहस्त्रनाम स्तोत्रम् के उच्चारण से व्यक्ति के समस्त पापों का नाश होता है। भगवान श्रीकृष्ण के एक हजार नामों का स्मरण करने से व्यक्ति के जीवन में किए गए सभी पाप और दोष नष्ट हो जाते हैं। इससे व्यक्ति को मोक्ष की प्राप्ति होती है और वह पुनर्जन्म के चक्र से मुक्त हो जाता है।

स्वास्थ्य लाभ: इस स्तोत्र के पाठ से व्यक्ति के शारीरिक और मानसिक स्वास्थ्य में सुधार होता है। यह व्यक्ति की रोग प्रतिरोधक क्षमता को बढ़ाता है और उसे विभिन्न बीमारियों से मुक्त रखता है। इसके नियमित पाठ से शरीर में सकारात्मक ऊर्जा का संचार होता है, जिससे व्यक्ति स्वस्थ और तंदुरुस्त रहता है।

धन, समृद्धि और सुख-शांति: श्री गोपाल सहस्त्रनाम स्तोत्रम् के नियमित पाठ से व्यक्ति के जीवन में धन, समृद्धि और सुख-शांति की प्राप्ति होती है। भगवान श्रीकृष्ण की कृपा से व्यक्ति के सभी कष्ट और समस्याएँ दूर होती हैं और उसे आर्थिक संपन्नता और समृद्धि प्राप्त होती है। यह स्तोत्र व्यक्ति के घर में सुख-शांति और हर्षोल्लास का वातावरण बनाता है।

परिवारिक कल्याण: इस स्तोत्र के पाठ से परिवार में प्रेम, सौहार्द और एकता बनी रहती है। इसके प्रभाव से परिवार के सभी सदस्य एक-दूसरे के प्रति सम्मान और स्नेह की भावना रखते हैं। यह स्तोत्र परिवार के सभी सदस्यों की रक्षा करता है और उन्हें सुखी और समृद्ध जीवन प्रदान करता है।

कार्यों में सफलता: श्री गोपाल सहस्त्रनाम स्तोत्रम् के पाठ से व्यक्ति को उसके कार्यों में सफलता प्राप्त होती है। भगवान श्रीकृष्ण की कृपा से व्यक्ति के सभी कार्य बिना किसी बाधा के सफलतापूर्वक संपन्न होते हैं। यह स्तोत्र व्यक्ति की जीवन में आने वाली सभी कठिनाइयों और बाधाओं को दूर करता है और उसे सफलता के मार्ग पर अग्रसर करता है।

मोक्ष की प्राप्ति: इस स्तोत्र के माध्यम से व्यक्ति को मोक्ष की प्राप्ति होती है। भगवान श्रीकृष्ण के एक हजार नामों का स्मरण करने से व्यक्ति को इस संसार के बंधनों से मुक्ति मिलती है और वह भगवान के चरणों में स्थान पाता है।

अतः, श्री गोपाल सहस्त्रनाम स्तोत्रम् का नियमित पाठ करने से व्यक्ति को मानसिक, शारीरिक, आर्थिक और आध्यात्मिक सभी प्रकार के लाभ प्राप्त होते हैं।

FAQ – श्री गोपाल सहस्त्रनाम स्तोत्रम् (Gopal Sahastranam Stotram

गोपाल सहस्त्रनाम का पाठ कब करना चाहिए?

गोपाल सहस्त्रनाम का पाठ किसी भी शुभ अवसर पर किया जा सकता है। विशेष रूप से, इसे बुधवार और शुक्रवार के दिन करना अधिक फलदायी माना जाता है।

गोपाल सहस्त्रनाम पाठ करने से क्या फायदा होता है?

गोपाल सहस्त्रनाम पाठ करने से मानसिक शांति, सुख-समृद्धि और आध्यात्मिक उन्नति प्राप्त होती है। यह पाठ मन की एकाग्रता को बढ़ाता है और जीवन में आने वाली कठिनाइयों को दूर करता है।

संतान गोपाल मंत्र का पाठ कितनी बार करना है?

संतान गोपाल मंत्र का पाठ कम से कम 108 बार करना चाहिए। संतान प्राप्ति और संतान की सुरक्षा के लिए इस मंत्र का नियमित रूप से जप करना लाभकारी होता है।

गोपाल पाठा कौन है?

गोपाल पाठा भगवान श्रीकृष्ण का एक अन्य नाम है। इसे विशेष रूप से उनके बाल रूप के संदर्भ में उपयोग किया जाता है।

गोपाल सहस्त्रनाम के रचयिता कौन है?

गोपाल सहस्त्रनाम का रचनाकार स्पष्ट रूप से ज्ञात नहीं है, परंतु यह माना जाता है कि यह ग्रंथ वैदिक ऋषियों द्वारा रचा गया है।

गोपाल कवच क्या फल है?

गोपाल कवच का पाठ करने से व्यक्ति की रक्षा होती है और उसे जीवन में आने वाली बाधाओं से मुक्ति मिलती है। यह कवच नकारात्मक ऊर्जा और बुरी नजर से बचाता है।

विष्णु सहस्रनाम का पाठ करने से क्या होता है?

विष्णु सहस्रनाम का पाठ करने से भगवान विष्णु की कृपा प्राप्त होती है। यह पाठ जीवन में सुख, शांति और समृद्धि लाता है और व्यक्ति को आध्यात्मिक उन्नति की ओर अग्रसर करता है।

Hemlata
Hemlatahttps://www.chalisa-pdf.com
Ms. Hemlata is a prominent Indian author and spiritual writer known for her contributions to the realm of devotional literature. She is best recognized for her work on the "Chalisa", a series of devotional hymns dedicated to various Hindu deities. Her book, available on Chalisa PDF, has garnered widespread acclaim for its accessible presentation of these spiritual texts.
RELATED ARTICLES
- Advertisment -

Most Popular